|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.76. अध्यायः 076
Mahabharata - Karna Parva - Chapter Topics
कर्णेन योद्धुंनिर्गच्छतोऽर्जुनस्य शुभनिमित्तप्रादुर्भावः॥ 1 ॥ श्रीकृष्णेनार्जुनस्य प्रोत्साहनम्॥ 2 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-76-0x(5024)(58671)
प्रसाद्य धर्मराजानं प्रहृष्टेनान्तरात्मना।
सम्पूज्य देवताः सर्व ब्राह्मणान्स्वस्ति वाच्य च।
सुमङ्गलं स्वस्त्ययनमारुरोह रथोत्तमम्॥ 8-76-1(58672)
तस्य राजा महाप्राज्ञो धर्मराजो युधिष्ठिरः।
आशिषोऽयुङ्क्त परमाः युक्तं कर्णरथं प्रति॥ 8-76-2(58673)
तमायान्तं महेष्वासं दृष्ट्वा भूतानि भारत।
निहतं मेनिरे कर्णं पाण्डवेन महात्मना॥ 8-76-3(58674)
बभूवुर्विमलाः सर्वा दिशो राजन्समन्ततः।
चाषाश्च शतपत्राश्च क्रौञ्चाश्चैव जनेश्वर।
प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम्॥ 8-76-4(58675)
बहवः पक्षिणो राजन्पुन्नामानः शुभाः शिवाः।
त्वरयन्तोऽर्जुनं युद्धे हृष्टरूपा ववाशिरे॥ 8-76-5(58676)
कङ्का गृध्रा बकाः श्येना वायसाश्च विशाम्पते।
अग्रतस्तस्य गच्छन्ति भक्ष्यहेतोर्भयानकाः॥ 8-76-6(58677)
निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे।
विनाशमरिसैन्यानां कर्णस्य च वधं तथा॥ 8-76-7(58678)
प्रयातस्याथ पार्थस्य महान्स्वेदो व्यजायत।
चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति॥ 8-76-8(58679)
विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः।
सञ्चोदयति तेजस्वी मधुहा वानरध्वजम्॥ 8-76-9(58680)
ततो गाण्डीवधन्वानमब्रवीन्मधुसूदनः।
दृष्ट्वा पार्थं तथायान्तं चिन्तापरिगतं तदा॥ 8-76-10(58681)
गाण्डीवधन्वन्सङ्ग्रामे ये त्वया धनुषा जिताः।
न तेषां मानुषो जेता त्वदन्य इह विद्यते॥ 8-76-11(58682)
एते हि बहवः शूराः शक्रतुल्यपराक्रमाः।
त्वां प्राप्य समरे शूरं प्रयाताः परमां गतिम्॥ 8-76-12(58683)
को हि द्रोणं च भीष्मं च भगदत्तं च मारिष।
विन्दानुविन्दावावन्त्यौ काम्भोजं च सुदक्षिणम्॥ 8-76-13(58684)
श्रुतायुं चाश्रुतायुं च शतायुं च महारथम्।
प्रत्युद्गम्य भवेत्क्षेमी यो न स्यात्त्वद्विधः प्रभुः॥ 8-76-14(58685)
तव ह्यस्त्राणि दिव्यानि लाघवं बलमेव च।
असम्मोहश्च युद्धेषु विज्ञानस्य च सन्नतिः।
वेधः पातश्च लक्षेषु योगश्चैव तथार्जुन॥ 8-76-15(58686)
भवान्देवान्सगन्धर्वान्हन्यात्सर्वांश्च राक्षसान्।
पृथिव्यां तु रणे पार्थ न योद्धा त्वत्समः पुमान्॥ 8-76-16(58687)
धनुर्गृह्मन्ति ये केचित्क्षत्रिया युद्धदुर्मदाः।
आत्मनस्तु समं तेषां न पश्यामि शृणोमि च॥ 8-76-17(58688)
ब्रह्मणा हि प्रजाः सृष्टा गाण्डीवं च महद्धनुः।
येन त्वं युध्यसे पार्थ तस्मान्नास्ति त्वया समः॥ 8-76-18(58689)
अवश्यं तु मया वाच्यं यत्पथ्यं तव पाण्डव।
मावमंस्था महाबाहो कर्णमाहवशोभिनम्॥ 8-76-19(58690)
कर्णो हि बलवान्दृप्तः कृतास्त्रश्च महारथः।
कृती च चित्रयोधी च देशकालस्य कोविदः॥ 8-76-20(58691)
बहुनात्र किमुक्तेन संक्षेपाच्छृणु पाण्डव।
त्वत्समं त्वद्विशिष्टं वा कर्णं मन्ये महारथम्।
परमं यत्नमास्थाय त्वया वध्यो महाहवे॥ 8-76-21(58692)
तेजसा वह्निसदृशो वायुवेगसमो जवे।
अन्तकप्रतिमः क्रोधे सिंहसंहननो बली॥ 8-76-22(58693)
अष्टरत्निर्महाबाहुर्व्यूढोरस्कः सुदुर्जयः।
अभिमानी च शूरश्च प्रवीरः प्रियदर्शनः॥ 8-76-23(58694)
सर्वयोधगुणैर्युक्तो मित्राणामभयङ्करः।
सततं पाण्डवद्वेषी धार्तराष्ट्रहिते रतः॥ 8-76-24(58695)
सर्वैरवध्यो राधेयो देवैरपि सवासवैः।
ऋते त्वामिति मे बुद्धिस्तदद्य जहि सूतजम्॥
देवैरपि हि संयत्तैर्बिभ्रद्भिर्मांसशोणितम्।
अशक्यः स रथो जेतुं सर्वैरपि युयुत्सुभिः॥ 8-76-25(58696)
दुरात्मानं पापवृत्तं नृशंसं
दुष्टप्रज्ञं पाण्डवेयेषु नित्यम्।
हीनस्वार्थं पाण्डवेयैर्विरोधे
हत्वा कर्णं निश्चितार्थो भवाद्य॥ 8-76-27(58697)
तं सूतपुत्रं रथिनां वरिष्ठं
निष्कालिकं कालवशं नयाद्य।
तं सूतपुत्रं रथिनां वरिष्ठं
हत्वा प्रीतिं धर्मराजे कुरुष्व॥ 8-76-28(58698)
जानामि ते पार्थं वीर्यं यथाव--
द्दुर्वारणीयं च सुरासुरैश्च।
सदावजानाति हि पाण्डुपुत्रा--
नसौ दर्पात्सूतपुत्रो दुरात्मा॥ 8-76-29(58699)
आत्मानं मन्यते वीरं येन पापः सुयोधनः।
तमद्य मूलं पापानां जहि सौतिं धनञ्जय॥ 8-76-30(58700)
खङ्गजिह्वं धनुरास्यं शरदंष्ट्रं तरस्विनम्।
दृप्तं पुरुषशार्दूलं जहि कर्णं धनञ्जय॥ 8-76-31(58701)
अहं त्वामनुजानामि वीर्येण च बलेन च।
जहि कर्णं रणे शूरं मातङ्गमिव केसरी॥ 8-76-32(58702)
यस्य वीर्येण वीर्यं ते धार्तराष्ट्रोऽवमन्यते।
तमद्य पार्थ सङ्ग्रामे कर्णं वैकर्तनं जहि॥ ॥ 8-76-33(58703)
इति श्रीमन्महाभारते कर्णपर्वणि सप्तदशदिवसयुद्धे षट्सप्ततितमोऽध्यायः॥ 76 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-76-23 रत्निस्त्वेकविंशत्यङ्गुलः। अष्टानां रत्नीनां अष्टषष्ट्यधिकं शतं अङ्गुलानि च भवन्ति॥ 8-76-28 निष्कालिकं निर्गतः कालयिता जेतास्येति तम्॥ 8-76-76 षट्सप्ततितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|